e-NIGHANTU Home Read Nighantu Search Nighantu Abbreviations About
Choose Script Here

<स्पन् च्लस्स्="तित्लेटेक्ष्त्">&न्ब्स्प्; <सेलेच्त् च्लस्स्="त्रन्स्शेल्भोक्ष्" नमे="सेल्श्थन" तित्ले="शेलेच्त् श्थन ःएरे" ओन्छन्गे="फ़ोर्म्.सुब्मित्();"> <ओप्तिओन् इद्="त्रन्स्" त्रन्स्="निघण्टुशेष" वलुए="१">निघण्टुशेष  
  Select Chapter 
Select  अधिकरणम् (सूत्र सङ्ख्या) 
 
Search Word - मदयन्त्
निघण्टुशेष - १. वृक्षकाण्ड
टीकाप्रस्तावना
-------------– |

निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)

सिद्धः शब्दसमुच्चयः शुचितरो यस्माद् भवद्विस्मयो,
निस्संशीतिसुशान्तिसातसहितः श्रेयांसि स्राक् क्रियात्|
यज्ज्ञानाम्बुदसद्रसेन रसवान् ख्यातश्च वानस्पतो,
वर्गो वल्गुगुणो विराजति भुवि श्रीवर्धमानो जिनः||१||
वाग्देवतां स्तौमि सदा प्रसन्नां, सन्नाऽतिकुज्ञानभरामुदाराम्|
विद्यार्थिनां पानकृते कृतार्थां पीयूषकुम्भं दधतीं करेण||२||
यद्वक्त्रोद्भूतचञ्चद्वचनरससुधालोलपो भव्यभावः
सेवां कुर्वन्निवास्ति प्रमुखमुखमिषाच्चन्द्रमाश्चन्द्रिर्माढ्यः|
दार्ढ्याऽगूढप्रतिज्ञाजितकविधिषणा भूतिकालं धरायां,
नन्दन्तु श्रीवरज्ञानविमलगुरवः सुध्युपाध्यायमिश्राः||३||
निघण्टुशेषस्य करोमि टीकां किञ्ज्ञोऽप्यहं स्वीयगुरुप्रभावात्|
शास्त्राण्यनेकानि विमृश्य दृष्ट्वा, चाहर्निशं स्वीयसुबुद्धिवृद्ध्यै||४||


इह हि चतुरुदधिवलयितवसुमतीमण्डलमण्डनायमानसुमानषड्दर्शनवादिमदोन्मादिद्विरदप्रकटघटागञ्जन-सिंहोपमानमहनीयमहिमशब्दानुशासनाऽभिधानकोषसत्य(?)साहित्याद्यनेकपवित्रशास्त्रविधान-सावधानतावाप्तकविकुलगरिमप्राग्भाराः प्रथितावितथात्मनीनपञ्चजनीनसमीचीनगुणगणजनितसकलप्रबलसुजनसमाजचमत्काराः श्रीपूर्णतल्लगणगगनाङ्गणसमलङ्करणसहस्रकिरणश्रमणगणशिरश्चूडामणिकरणिश्रीदेवचन्द्रसूरिचरण– कमलचञ्चरीकप्रकाराः पराजिताखर्वप्रतिज्ञासुपर्वसूरयः श्रीहेमचन्द्रसूरयः प्रचिक्रंसितशास्त्रविधानसमये प्रवर्तमानाः श्रेयस्काम्ययाऽभीप्सितप्रशस्तदेवतानमस्काराचरणादिमङ्गलं दुरपोहप्रत्यूहसन्दोहव्यपोहनाय
प्रचिकीर्षितनिघण्टुशेषाख्यशास्त्रसमाप्तिविधानाय सारशिष्टाचारसमाचरणाय प्रथमपद्येन प्रतिपादयन्ति स्म| तद्यथा–



Total Occurances of मदयन्त् is 0
Best Viewed in Firefox Browser or Internet Explorer 8.0 or higher in atleast 1024 X 768 resolution